Disclaimer

Disclaimer Legal Disclaimer Our concept to develop this website is to put Lord Shrinathji and all other God , Goddess information, photo and bhajan on website from book, different website and devotes.Some contents are taken from free and other website available on net and it’s not in in original length of form.Upon content owner request we may delete come contents.Owners email us if you want to remove your contents from our website or webblog.This blog is not for any commercial purposes. Thank you very much for your all support. Also all inappropriate comments will be deleted at the author’s discretion. Dr.Pravin Purecha-Bhatia Thanks, Admin

Friday, September 29, 2017

KANAKA DHAARAA STOTRAM

KANAKA DHAARAA STOTRAM – DEVANAGARI


This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

 

रचन: आदि शङ्कराचार्य

वन्दे वन्दारु मन्दारमिन्दिरानन्द कन्दलं

अमन्दानन्द सन्दोह बन्धुरं सिन्धुराननम्

अङ्गं हरेः पुलकभूषणमाश्रयन्ती

भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।

अङ्गीकृताखिल विभूतिरपाङ्गलीला

माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ 1 ॥

मुग्धा मुहुर्विदधती वदने मुरारेः

प्रेमत्रपाप्रणिहितानि गतागतानि ।

मालादृशोर्मधुकरीव महोत्पले या

सा मे श्रियं दिशतु सागर सम्भवा याः ॥ 2 ॥

आमीलिताक्षमधिग्यम मुदा मुकुन्दम्

आनन्दकन्दमनिमेषमनङ्ग तन्त्रम् ।

आकेकरस्थितकनीनिकपक्ष्मनेत्रं

भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ॥ 3 ॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या

हारावलीव हरिनीलमयी विभाति ।

कामप्रदा भगवतो‌உपि कटाक्षमाला

कल्याणमावहतु मे कमलालया याः ॥ 4 ॥

कालाम्बुदालि ललितोरसि कैटभारेः

धाराधरे स्फुरति या तटिदङ्गनेव ।

मातुस्समस्तजगतां महनीयमूर्तिः

भद्राणि मे दिशतु भार्गवनन्दना याः ॥ 5 ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्

माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।

मय्यापतेत्तदिह मन्थरमीक्षणार्थं

मन्दालसं च मकरालय कन्यका याः ॥ 6 ॥

विश्वामरेन्द्र पद विभ्रम दानदक्षम्

आनन्दहेतुरधिकं मुरविद्विषो‌உपि ।

ईषन्निषीदतु मयि क्षणमीक्षणार्थं

इन्दीवरोदर सहोदरमिन्दिरा याः ॥ 7 ॥

इष्टा विशिष्टमतयोपि यया दयार्द्र

दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।

दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां

पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ॥ 8 ॥

दद्याद्दयानु पवनो द्रविणाम्बुधारां

अस्मिन्नकिञ्चन विहङ्ग शिशौ विषण्णे ।

दुष्कर्मघर्ममपनीय चिराय दूरं

नारायण प्रणयिनी नयनाम्बुवाहः ॥ 9 ॥

गीर्देवतेति गरुडध्वज सुन्दरीति

शाकम्बरीति शशिशेखर वल्लभेति ।

सृष्टि स्थिति प्रलय केलिषु संस्थितायै

तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ॥ 10 ॥

श्रुत्यै नमो‌உस्तु शुभकर्म फलप्रसूत्यै

रत्यै नमो‌உस्तु रमणीय गुणार्णवायै ।

शक्त्यै नमो‌உस्तु शतपत्र निकेतनायै

पुष्ट्यै नमो‌உस्तु पुरुषोत्तम वल्लभायै ॥ 11 ॥

नमो‌உस्तु नालीक निभाननायै

नमो‌உस्तु दुग्धोदधि जन्मभूम्यै ।

नमो‌உस्तु सोमामृत सोदरायै

नमो‌உस्तु नारायण वल्लभायै ॥ 12 ॥

नमो‌உस्तु हेमाम्बुज पीठिकायै

नमो‌உस्तु भूमण्डल नायिकायै ।

नमो‌உस्तु देवादि दयापरायै

नमो‌உस्तु शार्ङ्गायुध वल्लभायै ॥ 13 ॥

नमो‌உस्तु देव्यै भृगुनन्दनायै

नमो‌உस्तु विष्णोरुरसि स्थितायै ।

नमो‌உस्तु लक्ष्म्यै कमलालयायै

नमो‌உस्तु दामोदर वल्लभायै ॥ 14 ॥

नमो‌உस्तु कान्त्यै कमलेक्षणायै

नमो‌உस्तु भूत्यै भुवनप्रसूत्यै ।

नमो‌உस्तु देवादिभिरर्चितायै

नमो‌உस्तु नन्दात्मज वल्लभायै ॥ 15 ॥

सम्पत्कराणि सकलेन्द्रिय नन्दनानि

साम्राज्य दानविभवानि सरोरुहाक्षि ।

त्वद्वन्दनानि दुरिता हरणोद्यतानि

मामेव मातरनिशं कलयन्तु मान्ये ॥ 16 ॥

यत्कटाक्ष समुपासना विधिः

सेवकस्य सकलार्थ सम्पदः ।

सन्तनोति वचनाङ्ग मानसैः

त्वां मुरारिहृदयेश्वरीं भजे ॥ 17 ॥

सरसिजनिलये सरोजहस्ते

धवलतमांशुक गन्धमाल्यशोभे ।

भगवति हरिवल्लभे मनोज्ञे

त्रिभुवनभूतिकरी प्रसीदमह्यम् ॥ 18 ॥

दिग्घस्तिभिः कनक कुम्भमुखावसृष्ट

स्वर्वाहिनी विमलचारुजलाप्लुताङ्गीम् ।

प्रातर्नमामि जगतां जननीमशेष

लोकधिनाथ गृहिणीममृताब्धिपुत्रीम् ॥ 19 ॥

कमले कमलाक्ष वल्लभे त्वं

करुणापूर तरङ्गितैरपाङ्गैः ।

अवलोकय मामकिञ्चनानां

प्रथमं पात्रमकृतिमं दयायाः ॥ 20 ॥

देवि प्रसीद जगदीश्वरि लोकमातः

कल्याणगात्रि कमलेक्षण जीवनाथे ।

दारिद्र्यभीतिहृदयं शरणागतं मां

आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥ 21 ॥

स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं

त्रयीमयीं त्रिभुवनमातरं रमाम् ।

गुणाधिका गुरुतुर भाग्य भागिनः

भवन्ति ते भुवि बुध भाविताशयाः ॥ 22 ॥

सुवर्णधारा स्तोत्रं यच्छङ्कराचार्य निर्मितं

त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥



No comments:

Post a Comment